(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.130. अध्यायः 130
Mahabharata - Drona Parva - Chapter Topics
द्रोणदुर्योधनसंवादो दुर्योधनयुद्धं च॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-130-0x(4594)(50386)
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते।
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्।
त्वरन्नेकरथेनैव बहु कृत्यं विचिन्तयन्॥ 7-130-1(50387)
स रथस्तव पुत्रस्य त्वरया परया युतः।
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान्॥ 7-130-2(50388)
`इह दृष्ट इतो नष्टः सरथः प्राद्रवन्नृपः।
मुहूर्तादिव पुत्रस्ते द्रोणमासाद्य मारिष'।
ससम्भ्रमामिदं वाक्यमब्रवीत्कुरनन्दनः॥ 7-130-3(50389)
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः।
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः॥ 7-130-4(50390)
सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारिताः।
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः॥ 7-130-5(50391)
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः।
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद॥ 7-130-6(50392)
आश्चर्यभूतो लोकेऽस्मिन्समुद्रस्येव शोषणम्।
निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च।
तथैव भीमसेनेन लोकः संवदते भृशम्॥ 7-130-7(50393)
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः।
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव॥ 7-130-8(50394)
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे।
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः॥ 7-130-9(50395)
द्रोण उवाच। 7-130-10x(4595)
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्।
यद्गतं गतमेवेदं शेषं चिन्तय मानद॥ 7-130-10(50396)
दुर्योधन उवाच। 7-130-11x(4596)
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्।
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज॥ 7-130-11(50397)
द्रोण उवाच। 7-130-12x(4597)
चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे।
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः॥ 7-130-12(50398)
यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम्।
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ॥ 7-130-13(50399)
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः।
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्॥ 7-130-14(50400)
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात्।
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ॥ 7-130-15(50401)
सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम्।
न सभायां जयो वृत्तो नापि तत्र पराजयः।
इह नो ग्लहमानानामद्य तावज्जयाजयौ॥ 7-130-16(50402)
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि।
अक्षान्स मन्यमानः प्राक्शरास्ते हि दुरासदाः॥ 7-130-17(50403)
यत्र ते बहवस्तात कौरवेया व्यवस्थिताः।
सेन्नां दुरोदरं विद्धि शरानक्षान्विशाम्पते।
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः॥ 7-130-18(50404)
सैन्धवे तु महद्द्यूंत समासक्तं परैः सह।
अत्र ते ध्रुवमायत्तो जयो वाऽजय एव वा॥ 7-130-19(50405)
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः।
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ।
तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ॥ 7-130-20(50406)
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्।
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः॥ 7-130-21(50407)
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्।
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः॥ 7-130-22(50408)
सञ्जय उवाच। 7-130-23x(4598)
ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात्।
उद्यम्यात्मानमुग्राय कर्मणे स पदानुगः॥ 7-130-23(50409)
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ।
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम्॥ 7-130-24(50410)
यौ तु पूर्वं महाराज वारितौ कृतवर्मणा।
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया॥ 7-130-25(50411)
पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम्।
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह॥ 7-130-26(50412)
ताभ्यां दुर्योधनः सार्धमकरोत्सङ्ख्यमुत्तमम्।
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली॥ 7-130-27(50413)
तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ।
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि॥ 7-130-28(50414)
तमविध्यद्युधामन्युस्त्रिंशता कङ्कपत्रिभिः।
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान्॥ 7-130-29(50415)
दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत्।
एकेन कार्मुकं चास्य चकर्त तनयस्तव॥ 7-130-30(50416)
सारथिं चास्य भल्लेन रथनीडादपाहरत्।
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान्॥ 7-130-31(50417)
युधामन्युश्च सङ्क्रुद्धः सरांस्त्रिंशतमाहवे।
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे॥ 7-130-32(50418)
तथोत्तमौजाः सङ्क्रुद्धः शरैर्हेमविभूषितैः।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम्॥ 7-130-33(50419)
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्यौत्तमौजसः।
जघान चतुरोऽस्याश्चानुभौ तौ पार्ष्णिसारथी॥ 7-130-34(50420)
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे।
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन्॥ 7-130-35(50421)
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः।
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि॥ 7-130-36(50422)
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा।
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे।
`अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम्'॥ 7-130-37(50423)
हताश्वसूतात्सरथादवतीर्य नराधिपः।
गदामादाय ते पुत्रः पाञ्चल्यावभ्यधावत॥ 7-130-38(50424)
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा।
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ॥ 7-130-39(50425)
ततः स हेमचित्रं तं गदया स्यन्दनं गती।
सङ्क्रुद्धः पोथयामास साश्वसूतध्वजं नृप॥ 7-130-40(50426)
`एतदीदृशकं पुत्रस्तवाकार्षीज्जनाधिप।
गदया गदिनां श्रेष्ठः सर्वलोकमहारथः'॥ 7-130-41(50427)
भङ्क्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः।
मद्रराजरथं तूर्णमारुरोह परन्तपः॥ 7-130-42(50428)
पाञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ।
रथावन्यौ समारुह्य बीभत्सुमभिजग्मुतः॥ ॥ 7-130-43(50429)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिंशदधिकशततमोऽध्यायः॥ 130 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-130-17 तान्प्रसिद्धान् यानक्षान्। अक्षान् मन्यमानः प्राग् ग्लहतेस्म इत्यन्वयः॥ 5-130-18 यत्र सभायाम। दूरोदरं द्यूतकारिणम्॥ 5-130-20 जयपराजयौ जयः पराजयो वेत्यर्थः॥ 5-130-130 त्रिंशदधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.